अक्षम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अक्षम्, क्ली, (अक्ष्णोति अक्षति वा अक्ष्यते वा अनेन अत्र वा अक्षू व्याप्तौ । पचाद्यच् घञ् वा । अ- श्नुते अत्यर्थं अशू व्याप्तौ । अशेर्देवने इति सो वा ।) इन्द्रियं । (यथा विष्णुपुराणे, -- “शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्य्याच्चित्तानुकारीणि प्रत्याहारपरायणः” ॥) सौवर्ञ्चलं । तुथं । इति मेदिनी । (चक्षुः । यथा रामायणे, -- “सर्व्वे तेऽनिमिषैरक्षैस्तमनुद्रुतचेतसः” । इति ।)
