सामग्री पर जाएँ

अक्षरम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अक्षरम् क्ली, (न क्षरति इति व्युत्पत्त्या ।) ब्रह्म । (अविनाशि निर्व्विशेषं प्रणवाख्यं ब्रह्म । कूटस्थः नित्यः आत्मा । यथा, -- “क्षराद्विरुद्धधर्म्मत्वादक्षरं ब्रह्म भण्यते । कार्य्यकारणरूपं तु नश्वरं क्षरमुच्यते ॥ यत्किञ्चिद्वस्तु लोकेऽस्मिन् वाचो गोचरतां गतं । प्रमाणस्य च तत्सर्व्वमक्षरे प्रतिषिध्यते ॥ यदप्रबोधात् कार्पण्यं ब्राह्मण्यं यत्प्रबोधतः । तदक्षरं प्रबोद्धव्यं यथोक्तश्वरवर्त्मना” ॥ अकारादिक्षकारान्तैकपञ्चाशद्वर्णः । इति मेदिनी ॥ अस्योत्पत्तिकारणं । यथा वृहस्पतिः, -- “षाण्मासिके तु सम्प्राप्ते भ्रान्तिः सजायते यतः । धात्राक्षराणि सृष्टानि पत्रारूढाण्यतः पुरा” ॥ इत्याह्निकतत्त्वं ॥ तच्च पञ्चविधं । यथा, -- “मुद्रालिपिः शिल्पलिपिर्लिपिर्लेखनिसम्भवा । गुण्डिका घुर्णसम्भूता लिपयः पञ्चधा स्मृताः” । इति वाराहीतन्त्रं ॥ * ॥ अन्यत् मुद्राशब्दे वर्णशब्दे च द्रष्टव्यं ॥ गगनं । धर्म्मः । तपस्या ॥ अपामार्गः । इति हेभचन्द्रः ॥ मोक्षः । इत्यमरः ॥ जलं । इति वेदप्रयोगः ।

"https://sa.wiktionary.org/w/index.php?title=अक्षरम्&oldid=109872" इत्यस्माद् प्रतिप्राप्तम्