अगम्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगम्या, स्त्री, अमैथुनार्हा नारी । गम्यागम्या- विवरणं यथा, यम उवाच, -- “या या गम्या नृणामेव निबोध कथयामि ते । स्वस्त्री गम्या च सर्व्वेषामिति वेदनिरूपिता ॥ अगम्या च तदन्या या इति वेदविदो विदुः । सामान्यं कथितं सर्व्वं विशेषं श्टणु सुन्दरि ! ॥ अगम्याश्चैव या याश्च निबोध कथयामि ताः । शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी ॥ अत्यगम्या च निन्द्या च लोके वेदे पतिव्रते । शूद्रश्च ब्राह्मणीं गच्छेद् ब्रह्महत्याशतं लभेत् ॥ तत्समं ब्राह्मणी चापि कुम्भीपाकं व्रजेद्ध्रुवं । यदि शूद्रां व्रजेद्विप्रो वृषलीपतिरेव सः ॥ स भ्रष्टो विप्रजातेश्च चाण्डालात् सोऽधमः स्मृतः । विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणं ॥ तत् पितॄणां सुराणाञ्च पूजने तत् समं सति । कोटिजन्मार्ज्जितं पण्यं सन्ध्यार्च्चातपसार्ज्जितं ॥ द्विजस्य वृषलीभोगान्नश्यत्येव न संशयः । ब्राह्मणश्च सुरापीती विड्भोजी वृषलीपतिः ॥ हरिवासरभोजी च कुम्भीपाकं व्रजेद्ध्रुवं । गुरुपत्नीं राजपत्नीं सपत्नीमातरं प्रसूं ॥ सुतां पुत्त्रबधूं श्वश्रूं सगर्भां भगिनीं सति । सोदरभ्रातृजायाञ्च भगिनीभ्रातृकन्यकां ॥ शिष्याञ्च शिष्यपत्नीञ्च भागिनेयस्य कामिनीं भ्रातृपुत्त्रप्रियाञ्चैवात्यगम्यामाह पद्मजः ॥ एतास्वेकामनेकां वा यो व्रजेन्मानवाधमः । स मातृगामी वेदेषु ब्रह्महत्याशतं लभेत् ॥ अकर्म्मार्होऽपि सोऽस्पृश्यो लोके वेदेऽतिनिन्दितः । स याति कुम्भीपाकञ्च महापापी सुदुष्करं” ॥ इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगम्या [agamyā], A woman not deserving to be approached (for cohabitation), one of the low castes; ˚म्यां च स्त्रियं गत्वा, ˚गमनं चैव जातिभ्रंशकराणि वा &c. -Comp. -गमनम् illicit intercourse. -गामिन् a. practising illicit intercourse.-गमनीय a. relating to illicit intercourse; ˚नीये तु (पापम्) व्रतैरेभिरपानुदेत् Ms.11.169.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगम्या/ अ-गम्या f. a woman with whom cohabitation is forbidden.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगम्या वि.
(स्त्री.) (नञ् + गम् + यत् + टाप्) (वह स्त्री) जिसके पास मासिकस्राव (रजोधर्मदर्शन) एवं शास्त्रों के अनुसार अन्य दिनों में सम्भोग के लिए गमन न किया जाय। बौ.ध.सू. 2.2.65।

"https://sa.wiktionary.org/w/index.php?title=अगम्या&oldid=483996" इत्यस्माद् प्रतिप्राप्तम्