अगस्त्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अगस्त्यः, पुं, (अगं विन्ध्यं स्त्यायति स्तभ्नाति वा । स्त्यै संधाते । आतोऽनुपसर्गे इति कः । अग + स्त्यै + क ।) वकपुष्पवृक्षः । इति राजनिर्घण्टः ॥ मित्रावरुणयोः पुत्त्रः मुनिविशेषः । तस्य पर्य्यायः । कुम्भसम्भवः २ मैत्रावरुणिः ३ । इत्यमरः ॥ अगस्तिः ४ पीताब्धिः ५ वातापिद्विट् ६ आग्नेयः ७ और्व्वशीयः ८ आग्निमारुतः ९ घटोद्भवः १० इति हेमचन्द्रः ॥ (तदुत्पत्तिर्यथा यास्कनिरुक्ते, -- “तयोरादित्ययोः सत्रे दृष्ट्वाप्सरसमुर्व्वशीम् । रेतश्चस्कन्द तत्कुम्भे न्यपतत् वाशतीवरे ॥ तेनैव तु मुहूर्त्तेन वीर्य्यवन्तौ तपस्विनौ । अगस्त्यश्च वशिष्ठश्च तत्रर्षी सम्बभूवतुः ॥ बहुधा पतितं रेतः कलसे च जले स्थले । स्थले वशिष्ठस्तु मुनिः सम्बभूवर्षिसत्तमः ॥ कुम्भे त्वगस्त्यः सम्भूतो जले मत्स्यो महाद्युतिः । उदियाय ततोऽगस्त्यः शम्यामात्रो महातपाः ॥ मानेन सम्मितो यस्मात्तस्मान्मान्य इहोच्यते । यद्वा कुम्भादृषिर्जातः कुम्भेनापि महीयते” ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अगस्त्यः [agastyḥ], 1 = अगस्ति See above.
N. of Śiva.
Comp. उदयः the rise of Canopus which takes place about the end of Bhādra; with the rise of this star the waters become clear; cf. प्रससादोदयादम्भः कुम्भयोनेर्महौजसः. R.4.21.
the 7th day of the dark half of Bhādra.-गीता [अगस्त्येन गीता विद्याभेदः] N. of a sort of विद्या mentioned in the Mb. Śāntiparvan; (pl.) Agastya's hymn. -चारः [ष. त.] the course of Canopus, the time of its rise which ushers the Śarad season and then every thing on earth assumes a lovely appearance. -तीर्थम् N. of a celebrated Tīrtha in the south. -वटः N. of a holy place on the Himālaya.-संहिता Agastya's collection of law.
