अगस्त्योदय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अगस्त्योदयः, पुं, (अगस्त्यस्य नक्षत्रस्य उदयः शर- त्काले गगने आविर्भावः ।) आकाशे नक्षत्र- रूपेण अगस्त्यमुनेरुदयः । स तु सौरभाद्रस्य सप्त- दशदिने भवति । अस्यार्घ्यदानं तन्मासीयशेष- दिनत्रये कर्त्तव्यं । यथा, -- “अगस्त्यार्घ्यदानं सौरेण सिंहराशौ विधानात्” । यथा ब्रह्मवैवर्त्ते, -- “अप्राप्ते भास्करे कन्यां शेषभूतैस्त्रिभिर्दिनैः । अर्घ्यं दद्यरगस्त्याय गौडदेशनिवासिनः” ॥ यथा भीमपराक्रमे । “यस्तु भाद्रपदस्यान्ते उदिते कलसोद्भवे । अर्घ्यं दद्यादगस्त्याय सर्व्वान् कामान् लभेत सः” ॥ यथा नारसिंहे । “शङ्खे तोयं विनिक्षिप्य सितपुष्प्राक्षतैर्युतं । मन्त्रेणानेन वै दद्यात् दक्षिणाशामुखस्थितः ॥ काशपुष्पप्रतीकाश अग्निमारुतसम्भव । मित्रावरुणयोः पुत्त्र कुम्भयोने नमोऽस्तु ते” ॥ प्रार्थनन्तु । “आतापिर्भक्षितो येन वातापिश्च महासुरः । समुद्रः शोषितो येन स मेऽगस्त्यः प्रसीदतु” ॥ गन्धादिकन्तु अगस्त्याय नमः इत्यनेन देयं । विशेषानुपदेशे सामान्यतः प्राप्तचात् दक्षि- णाशामुखस्थित इति गन्धादावपि प्रयोगाङ्ग- कर्तृधर्म्मत्वादिति रत्नाकरः ॥ * ॥ तत्पत्न्यर्घ्य- मन्त्रस्तु । “लोपामुद्रे महाभागे राजपुत्रि पतिव्रते । गृहाणार्घ्यं मया दत्तं मित्रावरुणिवल्लभे” ॥ इति मलमासतत्त्वं ॥ (अगस्त्योदये जलानि प्रसीदन्ति इत्यागमः । तथा च रघौ, -- “प्रससादोदयादम्भः कुम्भयोनेर्महौजसः ।
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अगस्त्योदय¦ पु॰ अगस्त्यस्य नक्षत्ररूपेण दक्षिणस्थस्य उदयः। अगस्त्यनक्षत्रोदये तस्य च नक्षत्रस्य दक्षिणस्थितत्वेनउत्तरदिग्वासिनां सर्वदा दर्शनयोग्यता नास्ति, तस्योदयश्चभाद्रशेषे भवति
“यस्तु भाद्रपदे मासि उदिते कलसोद्भवेइति” पुराणम्। तद्विवरणम् अगस्त्यचारशब्दे दर्शितम्॥ तस्योदयेजलादीनां प्रसन्नत्वं
“प्रससादोदयादम्भः कुम्भयो-नेर्महौजसः इति” रथावुक्तम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अगस्त्योदय/ अगस्त्यो m. the rising of Canopus
अगस्त्योदय/ अगस्त्यो m. the seventh day of the second half of भाद्र.
