अग्निघृत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्निघृत¦ न॰ अग्न्युद्दीपनं घृतं शा॰ त॰। वैद्यकोक्ते घृत-भेदे यथा चक्रदत्तः।
“पिप्पलीपिपलीमूलं चित्रको हस्तिपिप्पली। हिङ्गुचव्या-ऽजमोदा च पञ्चैव लवणानि च॥ द्वौ क्षारौ हवुषा चैवदद्यादर्द्धपलोन्मितान्। दधिकाञ्जिकशुक्तानि स्नेहमात्रा-समानि च। आर्द्रकं सरसं प्रस्थं घृतप्रस्थं विपाचयेदिति। एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते इति”॥ [Page0056-a+ 38]
“भल्लातकसहस्रार्द्धं जलद्रोणे विपाचयेत्। अष्टभागावशे-षञ्च कषायमवतारयेत्। घृतप्रस्थं समादाय कल्कानीमानिदापयेत्। व्यूषणं पिप्पलीमूलं चित्रको हस्तिपिप्ली॥ हिङ्गुचव्याजमोदा च पञ्चैव लवणानि च। द्वौ क्षारौहवुषा चैव दद्यादर्द्धषलीन्मितान्॥ दधिकाञ्चिकशुक्तानिस्नेहमात्रासमानि च। आर्द्रकं सरसञ्चैव शोभाञ्जनरस-न्तथा॥ तत् सर्व्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत्। एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते” इति च।
