सामग्री पर जाएँ

अग्निदीपनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अग्निदीपनः, त्रि, (अग्नेः जठरानलस्य दीपनः ।) अग्निवर्द्धकः । जठराग्निकारकौषधविशेषः । यथा रसेन्द्रचिन्तामणौ, -- “पारदामृतलवङ्गगन्धकं, भागयुग्ममरिचेन मिश्रितम् । तत्र जातिफलमर्द्धभागिकं, तित्तिडीफलरसेन मर्दितम् ॥ बह्निमान्द्यदशवक्त्रनाशनो, रामवाण इति विश्रुतो रसः । संग्रहग्रहणिकुम्भकर्णक- मामवातखरदूषणं जयेत् ॥ दीयते तु शणकानुमानतः, सद्य एव जठराग्निदीपनः” । “हरीतकी तथा शुण्ठी भक्ष्यमाणा गुडेन वा । सैन्धवेन युता वा स्यात् सातत्येनाग्निदीपनी” ॥ इति च भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=अग्निदीपनः&oldid=110042" इत्यस्माद् प्रतिप्राप्तम्