सामग्री पर जाएँ

अग्निभूः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अग्निभूः, पुं, (अग्नेर्भवतीति । अग्नि + भू + क्विप् ।) कार्त्तिकेयः । इत्यमरः ॥ (पुरा किल तारका- सुरेण उत्पीडितानां देवानां रक्षार्थं शिवेन अग्निरूपं स्ववीजं वह्निमुखे क्षिप्तं । तेन अग्निना कृत्तिकासु क्षिप्तं । ताश्च दैवागतगर्भरक्षार्थं शरवनं प्रविश्य प्रसूताः । तेन अग्निभूरिति कार्त्तिकेयः । जले क्ली । इति वेदपुराणे ॥ यथाह मनुः, -- “अग्नौ दत्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” ॥

"https://sa.wiktionary.org/w/index.php?title=अग्निभूः&oldid=110054" इत्यस्माद् प्रतिप्राप्तम्