सामग्री पर जाएँ

अग्निमान्द्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अग्निमान्द्य¦ न॰ अग्नेर्जठरानलस्य मान्द्यं पाचनकुण्ठता। धातुवैषम्येण जठरानलस्य पाचनशक्तिराहित्ये
“अग्नी-श्वरस्य भक्तानां न विद्युदग्निजं भयम् अग्निमान्द्यभयंनैवेति” काशीखण्डः। अग्निमान्द्येऽजीर्णता स्यात्तत्राल्पभोजनं कार्य्यं यथा। ‘ मुहुर्मुहुरजीर्णेऽपि भोज्य-मस्योपकल्पयेत् इति चक्र॰। तत्कारणमुक्तम्। स्नेहपीतस्यवान्तस्य विरिक्तस्य स्रुतासृजः। निरूढस्य च कायाग्निर्मन्दोभवति देहिनः॥ सोऽन्नैरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति। अल्पोमहद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः॥ सचाल्पै-र्लघुभिश्चान्नैरुपयुक्तैर्विवर्द्धते। काष्ठैरणुभिरल्पैश्च सन्धु-क्षित इवानलः॥ हृतदोषप्रमाणेन सदाहारविधिःस्मृतंइति सुश्रुते।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अग्निमान्द्य/ अग्नि--मान्द्य n. slowness of digestion , dyspepsia.

"https://sa.wiktionary.org/w/index.php?title=अग्निमान्द्य&oldid=484107" इत्यस्माद् प्रतिप्राप्तम्