सामग्री पर जाएँ

अग्निष्टोमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अग्निष्टोमः, पुं, (अग्नीनां स्तोमः । अग्नेः स्तुत्- स्तोमसोमा इति षः ।) यज्ञविशेषः । इति शब्दरत्नावली ॥ तस्य विधिः । ज्योतिष्टोमेन स्वर्गकामो यजेतेति वाक्यविहितज्योतिष्टोमना- मकयागविशेषस्य गुणविकारोऽग्निष्टोमो नाम । तस्य कालो वसन्तः । तत्राधिकारी अधीतवेद आहिताग्निश्च । द्रव्यं सोमः । देवता इन्द्रवाष्वा- दयः । ऋत्विजः षोडशः । तेषाञ्च चत्वारो गणाः । होतृगणः १ अध्वर्य्युगणः २ ब्रह्मगणः ३ उद्गातृ- गणः ४ । एकैकस्य गणस्य चत्वारश्चत्वारः । तत्र होतृगणे होता १ प्रशास्ता २ अच्छावाकः ३ ग्रावस्तोता ४ । अध्वर्य्युगणे अध्वर्य्युः १ प्रति- प्रस्थाता २ नेष्टा ३ उन्नेता ४ । ब्रह्मगणे ब्रह्मा १ ब्राह्मणाच्छंशी २ अग्नीतृ ३ पोता ४ । उद्गातृ- गणे उद्गाता १ प्रस्तोता २ प्रतिहर्त्ता ३ सु- ब्रह्मण्यः ४ । स च पञ्चाहसाध्यः । प्रथमदिने दीक्षा दीक्षणीयादितदङ्गानुष्ठानं । तत्र द्वितीय- दिवसे प्रायणीययागः सोमलताक्रयणं । ततो द्वितीयतृतीयचतुर्थदिवसेषु प्रातःकाले सायंकाले च प्रवर्ग्योपसन्नामकयागानुष्ठानं । चतुर्थदिवसे प्रवर्ग्योद्वासनानन्तरं अग्नीषोमीयपश्वनुष्ठानं । तत्र यस्य यजमानस्य ग्टहे पितृपितामहप्रपिता- महानां मध्ये केनापि वेदो नाधीतोऽग्निष्टोमो वा न कृतः स दुर्ब्राह्मणो भवति । तस्य दौ- र्ब्राह्मण्यपरिहारायाश्विनपशुः कर्त्तव्यः । यस्य यजमानस्य पितृपितामहप्रपितामहानां मध्ये केनापि सोमपानं न कृतं स्यात् तस्य सोमपान- विच्छेददोषपरिहारार्थमैन्द्राग्नपश्वनुष्ठानं कर्त्तव्यं । इत्थं त्रयाणां पशूनां युगपदालम्भपक्षे एकस्मि- न्नेव यूपे त्रयाणां पशूनां बन्धनं । इत्थं पशु- त्रयानुष्ठानं चतुर्थदिवसे तस्मिन्नेव दिने वा तृतीयभागे उत्थाय प्रयोगारम्भः कार्य्यः । तत्र पात्रासादनं । पात्राणि च ग्रहाश्चमसाः स्थाल्य- श्चेति । तत्र ग्रहपात्राणि वितस्तिमात्राणि उलूखलाकाराणि । ऊर्द्धपात्राणि चमसपात्राणि तावत्परिमितान्येव तिर्य्यगाकृतीनि कोणचतु- ष्टयविशिष्टानि धारणार्थदण्डयुक्तानि । स्थाल्यो मार्त्तिक्यः । तत आरभ्य सोमलताकण्डनेन सोमरसं निष्कास्य निष्कास्य ग्रहैश्चमसैश्च होमः कर्त्तव्यः । तत्र सूर्य्योदयानन्तरं आग्नेयपशुयागः कर्त्तव्यः । एवमुक्थ्यपर्य्यायान्ते कृते प्रातःसवन- समाप्तिः । ततो मध्यन्दिनसवनं । तत्र दक्षिणा- दानं । दक्षिणा च द्वादशोत्तरशतं गावः । तत- स्तृतीयसवनं । इत्थं प्रातःसवनमाध्यन्दिनसवन- तृतीयसवनरूपसवनत्रयात्मकः अग्निष्टोमः प्र- धानयागः । इतरेऽङ्गयागाः । तृतीयसवनसमा- प्त्युत्तरमवभृथयागः । उदके वरुणदेवताकपुरो- डाशहोमः । तदनन्तरमनुबन्ध्या पशुयागः । तत्र गौः पशुः । तस्य कलिनिषिद्धत्वात् तस्य च नित्यत्वात् तत् स्थाने आमीक्षायागः । तत उदयनीया तत उदवसानीया । सा च पञ्चम- दिवसे यावद्रात्रि कर्त्तव्या । तत्समाप्तावग्निष्टोम- यागसमाप्तिः । इत्यग्निष्टोमयागीयपदार्थकला- सूची ॥

"https://sa.wiktionary.org/w/index.php?title=अग्निष्टोमः&oldid=110091" इत्यस्माद् प्रतिप्राप्तम्