सामग्री पर जाएँ

अग्निसन्दीपनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अग्निसन्दीपनम्, त्रि, (अग्नेः सन्दीपनम् । सम् + दीप् + ल्युट् ।) वह्निवर्द्धकौषधादि । यथा, -- “एला त्वङ्नागपुष्पाणां मात्रोत्तरविवर्द्धिता । मरिचं पिप्पली शुण्ठी चतुःपञ्चषडुत्तरा ॥ द्रव्याण्येतानि यावन्ति तावती सितशर्करा । चूर्णमेतत् प्रयोक्तव्यमग्निसन्दीपनं परं” ॥ इति भावप्रकाशः ॥ अपि च । “अग्निसन्दीपनं हृद्यं लबणार्द्रकभक्षणं” । इति राजवल्लभः ॥

"https://sa.wiktionary.org/w/index.php?title=अग्निसन्दीपनम्&oldid=110097" इत्यस्माद् प्रतिप्राप्तम्