अग्निस्तम्भन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्निस्तम्भनम्, क्ली, (अग्नेः स्तम्भनम् । षष्ठीतत्- पुरुषः ।) मन्त्रौषधिद्वारा अग्नेर्द्दाहिकाशक्ति- निवारणं । तद्यथा, -- “मालूरस्य वासां ग्टह्य जलौकां तत्र पेषयेत् । हस्तौ तु लेपयेत्तेन अग्निस्तम्भनमुत्तमं ॥ मालूरस्य स्थाने मानुषस्य इति वा पाठः ॥ १ ॥ शाल्मलीरसमादाय खरमूत्रे निधापितं । अग्न्यागारे क्षिपेत्तेन अग्निस्तम्भनमुत्तमं ॥ २ ॥ वायसी उदरं ग्टह्य मण्डूकवसया सह । गुटिकां कारयेत्तेन ततोऽग्निं प्रक्षिपेद्वशी ॥ एवमेतत् प्रयोगेण अग्निस्तम्भनमुत्तमं ॥ ३ ॥ रक्तपाटलमूलन्तु अवष्टब्धञ्च मूलकैः ॥ दिव्यं स्तम्भयते क्षिप्रं पयःपिण्डं जलान्तकं ॥ ४ ॥ मुण्डीतका वचा कुष्ठं मरीचं नागरं तथा ॥ चर्व्वित्वा च इमं सद्यो जिह्वया ज्वलनं लिहेत् । ५ । गोरोचनां भृङ्गराजं चूर्णीकृत्य घृतं समं ॥ दिव्यस्तम्भश्च पीत्वा स्यान्मन्त्रेणानेन वै तथा” । ६ । ओमह्यं अग्निस्तम्भनं कुरु । इति गारुडे १८६ अध्यायः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्निस्तम्भन/ अग्नि--स्तम्भन n. the (magical) quenching of fire.
