अग्निस्वात्ताः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्निस्वात्ताः, पुं, (अग्निना सुष्ठु यथा स्यात् एवम् आत्ताः भक्षिताः, श्रौतस्मार्त्ताग्निदग्धा इत्यर्थः । मन्वादिस्मृतिषु मूर्द्ध्वन्यषकारवान् एव पाठः । मूर्द्ध्वन्यादेशस्तु न युक्तः ।) मरीचिपुत्त्रपितृगण- विशेषः । नित्यबहुवचनान्तशब्दोऽयं । इति शब्दमाला, -- “विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः । अग्निस्वात्ताश्च देवानां मारीच्या लोकविश्रुताः” ॥ इति मनुः ।
