सामग्री पर जाएँ

अग्निहीत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अग्निहीत्र¦ न॰ अग्नये हूयतेऽत्र हु--त्र

४ त॰। मन्त्रक-रणवह्निस्थापनपूर्ब्बतदुद्देश्यकहोमे। अग्निहोत्रसम्बन्धित्वात्हविषि, वह्नौ पु॰। काञ्चिदाख्यायिकामुपक्रम्य अग्नि-होत्रशब्दनिरुक्तिविधानाद्युक्तं तैत्तिरीयब्राह्मणे
“सोऽग्नि-रबिभेत् आहुतिभिर्वैतमाप्नोतीति स प्रजापतिं पुनःप्राविशत् तं प्रजापतिरब्रवीत् जायस्वेति सोऽब्रवीत् किंभागधेयमभिजनिष्य इति तुभ्यमेवेदं हूयाता इत्य-ब्रवीत् सएतद्भागधेयमभ्यजायत। यदग्निहोत्रम्” इतिपुरा प्रजापतेस्तापं दृष्ट्वा पलायनादुपरतोऽग्निः प्रजापतेस्त्व-पक्रम्यागत एव, ततः प्रजापतिस्तस्मिन्नग्नौ पूर्ब्बोक्तं घृतंस्वाहाकारेण यामाहुतिं प्रथममजुहोत्। तदाहुतिसामर्थ्येनपुरुषमसृजत। तथा द्वितीयाद्याहुतिभिः अश्वादीनसृजत। ततः प्रजानां पुनरुत्पत्तेः स्वस्य प्रजापतित्वं सुस्यितम्। तदानीमग्निर्भीतोऽभूत्। तस्यायमभिप्रायः। प्रजापतिःपुनः पुनराहुतिभिरेव मां प्राप्नोति न तु भागं प्रयच्छति। तास्त्वाहुतीर्देवा एव गृह्णन्ति। तस्माद्भागरहितः सेवितुं नशक्नोमीति विचार्य्य पूर्ब्बवत् पलायनमकृत्वा तस्मिन् प्रजा-पतावेव प्रविष्टः। स च प्रजायस्वेति पुनः पुनरग्निमब्रवीत्सचाग्निस्तदुदर एव स्थित्वा भागरहितोऽहं क्षुधितः सेवितुंन शक्नोमि भागो मेऽपेक्षितः। किं भागमभिलक्ष्याह-[Page0062-a+ 38] मुत्पत्स्य इत्युक्तम्। अग्निना उक्तः प्रजापतिरिदमग्नि-होत्रगतं हविस्तुभ्यमेव हूयाता इति भागं दत्तवान्। ततोऽग्निहोत्रहविःस्वरूपं भागधेयमभिलक्ष्याग्निरुत्पन्नः। तस्मादग्नये होत्रं होमोऽस्मिन् कर्म्मणीति बहुव्रीहिव्यु-त्पत्त्या अग्निहोत्रमिति कर्म्मनाम। अग्नये होत्रमितितत्पुरुषव्युत्पत्त्या हविर्नाम” इति तद्भाष्यम्। तत्कालश्च तत्रै-वोक्तः
“तद्धूयमानमादित्यीऽब्रवीत्। मा हौषीः। उभयोर्वैनावेतदिति सोऽग्निरब्रवीत्। कथं नौ होष्यन्तीति। सायमेव तुभ्यं जुहवन् प्रातर्मह्यमित्यब्रवीत्। तस्मा-दग्नये सायं हूयते सूर्य्याय प्रातः” इति। तद्धविरग्न्यर्थंप्रजापतिना हूयमानं दृष्ट्वा मा हौषीरित्येवमादित्यो निवारयामास। हेतुञ्चैवमवीचत्। योऽयमग्निर्यश्चाहं तयो-रुभयोरावयोरेतद्धविः, न त्वेकस्याग्नेः इति। तदानी-मुभयोर्भागव्यवस्था जाता। अग्मिना पृष्टा या कालभेदेनव्यवस्था तामुवाच। तस्मादग्नये सायं जुहुयात्, सूर्यायप्रातर्जुहुयात्” इति तद्भाष्यम्। तच्च नित्यं काम्यञ्च
“यावज्जीमग्निहोत्रंजुहोतीति” श्रुत्यानित्यस्य
“उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोतीति” श्रुत्या च काम्यस्य विधानमुक्तम्। अस्य यजुर्वेदोक्तत्वेऽपिसर्ववेदिभिः कर्त्तव्यता
“यन्नाम्नातं स्वशाखायां पार-क्यमविरोधि च विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादि कर्म्म-वदिति” छन्दोग॰ प॰ कात्या॰।
“अग्निहोत्रं त्रयोवेदास्त्रिदण्डो भस्मधारणम्। बुद्धिपौरुषहीनानां जीवि-केति वृहस्पतिरिति” चार्वाकमतम्।

"https://sa.wiktionary.org/w/index.php?title=अग्निहीत्र&oldid=194588" इत्यस्माद् प्रतिप्राप्तम्