अग्नीन्धनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्नीन्धनम्, क्ली, (अग्नौ इन्धनम् । अग्नि + इन्ध् + करणे ल्युट् ।) अग्निकार्य्यं । हविर्द्दानादिपूर्ब्ब- काग्निज्वालनं । इति हेमचन्द्रः ॥ यथाह मनुः -- “अग्नीन्धनं भैक्षचर्य्यामधः शय्यां गुरोर्हितम् । आसमावर्त्तनात् कुर्य्यात् कृतोपनयनो द्विजः” ॥
