अग्न्युद्धार
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्न्युद्धार¦ पु॰ अग्नेःआधनार्थमुद्धारः अरणिमन्थनेन उत्था-पनम्। अरणिद्वयघर्षणेनानलोत्पादने। तत्प्रकारस्तु
“अश्वत्थो यः शमीगर्भः प्रशस्तीर्वीसमुद्भवः। तस्य या प्राङ्-मुखी शाखा वोदीची वोर्द्धगापि वा॥ अरणिस्तन्मयी प्रोक्तातन्मय्येवोत्तरारणिः। सारवद्दारवञ्चत्रमोविली च प्रश-स्यते॥ संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते। अलाभे त्वशमीगर्भादुद्धरेदविलम्बितः॥ चतुर्विंशतिरङ्गुष्ठ-दैर्व्यं षडपि पार्थिवम्। चत्वार उच्छ्रये मानमरण्योःपरिकीर्त्तितम्॥ अष्टाङ्गुलः प्रमन्थः स्याच्चत्रं स्याद्द्वाद-शाङ्गुलम्। ओविली द्वादशैव स्यादेतन्मन्थनयन्त्रकम्॥ अङ्गुष्ठाङ्गुलमानन्तु यत्र यत्रोपदिश्यते। तत्र तत्र वृहत्-पर्व्वग्रन्थिभिर्म्मिनुयात् सदा॥ गोबालैः शणसंमिश्रैस्त्रि-वृत्तममलात्मकम्। व्यामप्रमाणं नेत्रं स्यात् प्रमय्यस्तेनपावकः॥ मूर्द्धाक्षिकर्णवक्त्राणि कन्धरा चापि पञ्चमी। [Page0064-a+ 38] अङ्गुष्ठमात्राण्येतानि द्व्यङ्गुष्ठं वक्ष उच्यते॥ अङ्गुष्ठमात्रंहृदयं त्र्यङ्गुष्ठमुदरं स्मृतम्। एकाङ्गुष्ठा कटिर्ज्ञेया द्वौवस्तिर्द्वौ च गुह्यकम्॥ ऊरू जङ्घे च पादौ च चतुस्त्र्येकैर्यथाक्रमम्। अरण्यवयवाह्येते याज्ञिकैः परिकीर्त्तिताः॥ यत्तद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते। अस्यां योजायते वह्निः स कल्याणकृदुच्यते॥ अन्येषु ये तु मथ्नन्तिते रोगभयमाप्नुयुः। प्रथमे मन्थने त्वेष नियमो नोत्तरेषुच॥ उत्तरारणिनिष्पन्नः प्रमन्थः सर्ब्बदा भवेत्। योनि-सङ्करदोषेण युज्यते ह्यन्यमन्थकृत्॥ आर्द्रा सशुषिराचैव घूर्णाङ्गी पाटिता तथा। न हिता यजमानानामर-णिश्चोत्तरारणिः॥ परिधायाऽहतं वासः प्रावृत्य च यथा-विधि। बिभृयात् प्राङ्मुखो यन्त्रमावृता वक्ष्यमाणया॥ चत्रव्रध्नप्रमन्थाग्रं गाढं कृत्वा विचक्षणः। कृत्वोत्तराग्रामरणिं तद्व्रध्नमुपरि न्यसेत्॥ चत्राधः कीलकाग्रस्थामोवि-लीमुदगग्रकाम्। विष्टम्भाद्धारयेद् यन्त्रं निष्कम्पं प्रयतःशुचिः” इति कात्या॰ स॰॥
