अग्रजन्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रजन्मन् पुं।

ब्राह्मणः

समानार्थक:द्विजाति,अग्रजन्मन्,भूदेव,वाडव,विप्र,ब्राह्मण,द्विज,ब्रह्मन्

2।7।4।1।3

आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः। विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः॥

 : यागादिषट्कर्मयुक्तविप्रः, यागे_यजमानः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रजन्मन्¦ पु॰ अग्रे जन्म यस्य जन--मनिन् व्यधि॰ बहु॰। ज्येष्ठभ्रातरि, विप्रे च। अग्रजातमात्रे त्रि॰। अग्रात्प्रधानाङ्गात् मुखात् जन्मास्य व्य॰ ब॰। ब्रह्मणोमुखोत्-पन्ने विप्रे, तस्य तन्मुखोत्पत्तिश्च ताण्ड्यमहाब्राह्मणेउक्ता यथा
“सोऽकामयत यज्ञं सृजेयेति स मुखत एवत्रिवृतमसृजत तं गायत्रीच्छन्दोऽन्वसृज्यताग्निर्द्देवताब्राह्मणोमनुष्यो वसन्त ऋतुस्तस्मात्त्रिवृत् स्तोमानां मुखं,गायत्री च्छन्दसाम्, अग्निर्देवतानां, ब्राह्मणो मनुष्याणां,वसन्त ऋतूनां, तस्माद्ब्राह्मणो मुखेन वीर्य्यङ्करोतिमुखती हि सृष्टः” इति। व्याख्यातञ्चैतत् भाष्ये
“सःप्रजापतिरकामयत् किमिति” ? सर्व्वसाधकं यज्ञं सृजे येतिस एतमग्निष्टोममपश्यत् तमाहरदित्युक्तस्यैवेदं विवरणं सःप्रजापतिः मुखत आत्मनो मुखादेव त्रिवृतमावृत्ति-त्रयसाध्यमेतन्नामकंस्तोममसृजत तं त्रिवृतमनु पश्चाद्गायत्री-छन्दः गायत्रं नाम छन्दोऽसृज्यत तदनु अग्निर्देवताऽ-सृज्यत तमनु मनुष्यी ब्राह्मणोऽसृज्यत तथा तमनु वस-न्ताख्यश्च ऋतुरसृज्यत यस्माद्यदेते मुखतएव सृष्टाः तस्मादेतेत्रिवृदादुयः स्वस्वजातीयानां मध्ये मुख्या अभवन् त्रिवृदा-दीनां मुख्यानां मध्ये ब्राह्मणस्य मुख्यत्वप्रयुक्तं वीर्य्यं लोक-सिद्धं दर्शयति तस्मान्मुखसृष्टत्वेन मुख्यत्वात् ब्राह्मणो मुखे-नेदानीमपि वीर्य्यं स्वाध्यायप्रवचनादिजन्यं सामर्थ्यङ्करोतितस्मादित्युक्तं विवृणोति हि यस्माद्ब्राह्मणो मुखतः सृष्ट-स्तस्मादित्यर्थः॥ एवमुक्तमर्थं यो वेद सोऽपि मुखेन वीर्य्यं-ङ्करोति मुखसाध्येन स्वाध्यायप्रवचनादिनैवाभीष्टं साधयतिइत्यर्थः” इति।
“ब्राह्मणोऽस्य मुखमासीति” पुरुषसूक्तम् अतएव विप्रस्य मुखजातत्वेन मुखसाध्यस्वाध्यायाभ्यसने एववीर्य्यं भवतीत्यप्युक्तम् अतएव मनुना
“वेदमेव सदाभ्यस्ये” दित्यु-क्तम् हारीतसंहितायां तु
“षट् कर्म्माणि, निजान्याहुर्ब्राह्म-णस्य महात्मनः। तैरेव सततं यस्तु वर्त्तयेत् सुखमेधतेअध्यापनं चाध्ययनं याजनं यजनं तथा। दानं प्रतिग्रहश्चेति षट् कर्म्माणीति चोच्यते” इति
“वेदञ्चैव सदाभ्यस्येत्शुचौ देशे समाहितः धर्म्मशास्त्रं तथा पाठ्यं ब्राह्मणैः शुद्ध-मानसैः वेदवत् पठितव्यञ्च श्रोतव्यञ्च दिवानिशिश्रुतिहीनाय विप्राय स्मृतिहीने तथैव च दानं भोजनसन्यच्च दत्त कुलविनाशनम्। तस्मात् सर्वप्रयत्नेन वेद[Page0065-b+ 38] शास्त्रं पठेत्„ द्विज इति” च।
“सत्त्वप्रधाना वप्राः स्युरितिभारतोक्तेः विप्रस्य सत्वप्रधानतया
“ब्राह्मणक्षत्त्रियविशांशूद्राणाञ्च परन्तप!। कर्म्माणि प्रविभक्तानि स्वभावप्रभवै-र्गुणैः। शमोदमस्तपः शौचं क्षान्तिरार्जवमेव च। ज्ञानंविज्ञानमास्तिक्यं ब्रह्मकर्म्म स्वभावजमिति” गीतायांसात्विकधर्म्माएवास्य स्वाभाविका इत्युक्तम्। विवृतञ्चैतत्श्रीधर स्वामिना
“तत्र ब्राह्मणस्य स्वाभाविकानि कर्म्माण्याहशम इति, शमश्चित्तोपरमः (वाह्यविषयान्निवर्त्तनम्) दमो-वाह्येन्द्रियोपरमः (स्वस्वविषयान्निवर्त्तनम्) तपः पूर्ब्बोक्तं(सगुणब्रह्मोपासनादि) शौचं वाह्यमाभ्यन्तरञ्च। क्षान्तिः(शीतोष्णादिद्वन्द्वसहिष्णुता) आर्जवम् अवक्रता (वाह्या-भ्यन्तरयोः कापठ्याभावः) ज्ञानं शास्त्रीयं विज्ञानमनुभवःआस्तिक्यम् अस्ति परलोक इति निश्चयः। एतत् शमादिब्राह्मणस्य स्वभावात् जातं कर्म्मेति”।
“मुखजातादयोप्यत्रअग्रे प्रथमं जन्म यस्य। चतुर्मुखे ब्रह्मणि,
“यो वै ब्रह्माणंविदधाति पूर्बं यश्चास्मै प्रहिणोति वेदमिति”
“हिरण्यगर्भः समवर्त्तताग्रे” इति च श्रुतौ परब्रह्मसकाशात् तस्यप्रथमोत्पत्तिरुक्ता, तदुतपत्तिप्रकारस्तु मनुना
“सोऽभिध्यायशरीरात् स्वात् सिसृक्षुर्बहुधा प्रजाः। अप एव ससर्जादौतासु वीजमवासृजत्। तदण्डमभवद्धैमं सहस्रांशुसमप्रमम्तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामह” इत्यनेनोक्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रजन्मन्¦ m. (-न्मा)
1. A priest or Brahman; a man of the sacerdotal tribe.
2. An elder brother or first-born.
3. BRAHMA4, the first-born of the gods. E. अग्र first or best, and जन्मन् birth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रजन्मन्/ अग्र--जन्मन् m. the first-born , an elder brother , a ब्रह्मन्Mn. Ya1jn5. etc.

अग्रजन्मन्/ अग्र--जन्मन् m. a member of one of the three highest castes L.

अग्रजन्मन्/ अग्र--जन्मन् m. ब्रह्मा

"https://sa.wiktionary.org/w/index.php?title=अग्रजन्मन्&oldid=194664" इत्यस्माद् प्रतिप्राप्तम्