अग्रजन्मा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्रजन्मा, [न] पुं, (अग्रे जन्म यस्य स बहुव्रीहिः,) (जन् + भावे मनिन्) ब्राह्मणः ॥ इत्यमरः ॥ “अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षट्कर्म्माण्यग्रजन्मनः” ॥ मनुः । ज्येष्ठभ्राता । ब्रह्मा । इति विश्वः ॥
