अग्रम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्रम्, क्ली, (अग्यते अगति वा । अग कुटिलायां गतौ ऋज्रेन्द्रेति साधु ।) उपरिभागः । आगा इति भाषा । अस्य पर्य्यायः । शिरः २ शिखरं ३- इत्यमरः ॥ पुरस्तात् । अवलम्बनं । पलपरि- माणं । प्रान्तं । समूहः । इति मेदिनी ॥ (भिक्षाविशेषः । ग्रासचतुष्टयम् । “ग्रासप्र- माणा भिक्षास्यादग्रं ग्रासचतुष्टयम्” ॥ इति स्मृतेः ।)
