अग्रसन्धानी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्रसन्धानी, स्त्री, (अग्रे फलभोगात्पूर्ब्बं सन्धीयते अन्विष्यते कार्य्यमनया अग्र + सम् + धा + करणे ल्युट् स्त्रियां ङीप्) यमपञ्जिका । जीवानां शुभाशुभकर्म्मलिखितं यमस्य पुस्तकं । इति त्रि- काण्डशेषः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्रसन्धानी¦ स्त्री अग्रे फलोत्पत्तेः प्राक सन्धीयते ज्ञाय-तेऽबया कार्य्यं सम् + धा--करणे ल्युट् ङीप्। यमपञ्जि-कायाम्। यत्र हि प्राणिवर्गस्य प्राग्भवीयकर्म्मानुसारेणशुभाशुभसूचकं सर्व्वं लिख्यते सा यमपञ्जिका,। कैश्चित्यमपट्टिकेति सां कथ्यते। अग्रसन्धानकारिणि त्रि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्रसन्धानी¦ f. (-नी) The register of human actions, kept by YAMA, the judge of the dead. E. अग्र first, and सं, preposition, with धा to take; recording all actions from the original birth.