अग्रहायणः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अग्रहायणः, पुं, (हायनम्य वर्षस्य अग्रः । हश्च व्रीहिकालयोरिति सूत्रेण हा + ल्युट् युक् च ।) मासविशेषः । तस्य व्युत्पत्तिर्यथा, -- “हायनस्या- ग्रोऽग्रहायणः निपातनात् परनिपातनत्वञ्च” । इत्यमरटीकायां भरतः ॥ मार्गशीर्षमासः । इति शब्दरत्नावली ॥ अस्य पर्य्यायः आग्रहायणिके जातफलं तत्कृत्यञ्च मार्गशीर्षे द्रष्टव्यम् ॥
