सामग्री पर जाएँ

अघनाशन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अघनाशन¦ त्रि॰ अघं नाशयति नश--णिच्--ल्यु। पाप-नाशके जप्यदानादौ
“जपेत् सर्व्वाघनाशनमिति” स्मृतिः। स्त्रियां ङीप्। अघस्यासुरभेदस्य नाशनः। श्रीकृष्णे,स हि अजगररूपेण जिघांसन्तं तं हतवान् तत्कथाभागवते
“अथाघनामाभ्यपतन्महासुरस्तेषां सुखक्रीडन-वीक्षणाक्षमः। नित्यं यदन्तनिजजीवितेप्सुभिः पीता-मृतैरप्यमरैः प्रतीक्ष्यते॥ दृष्ट्वार्भकान् कृष्णमुखानघासुरःकंसानुशिष्टः स वकीवकानुजः। अयन्तु मे सोदरनाशकृ-त्तयोर्द्वयोर्घ्नमेनं सवलं हनिष्ये। एते यदस्मत्सुहृदोस्तिलापाःकृतास्तदा नष्टसमा व्रजौकसः। प्राणे गते वर्ष्मसु कानुचिन्ताप्रजासवः प्राणभृतोहि संयते॥ इति व्यवस्याजगरं वृहद्वपुःस योजनायाममहाद्रिपीवरम्। धृत्वाद्भुतं व्याप्तगुहाननं तदापथि व्यशेत ग्रसनाशया खलः”॥ इत्थम् अघनामकेऽसुरेस्थिते तदुदरे गोवत्सवत्सपालेषु गतेषु स्वयमपि हरिः प्रविश्यअत्यन्तं स्वदेहवर्द्धनेन तं हतवान् इत्यप्युक्तम्।
“तच्छ्रुत्वा-भगवान् कृष्णस्त्वव्ययः सार्भवत्सकम्। चूर्णीचिकीर्षो-रात्मानं तरसा ववृधे गले॥ ततोऽतिकायस्य निरुद्ध-मार्गिणीह्यदीर्णदृष्टेर्भ्रमतस्त्वितस्ततः। पूर्णोन्तरङ्गे पवनो-[Page0068-b+ 38] निरुद्धोमूर्द्ध्वन्विनिर्भिद्य विनिर्गतो वहिः” इति॥
“कृष्ण-चरितमिवाघनाशनमिति” श्लेषः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अघनाशन¦ mfn. (-नः-नी-नं) Purifying, freeing from sin. m. (-नः)
1. A name of VISHN4U
2. An expiator. अ, अघ and नाशन destroyer.

"https://sa.wiktionary.org/w/index.php?title=अघनाशन&oldid=484231" इत्यस्माद् प्रतिप्राप्तम्