सामग्री पर जाएँ

अघमर्षणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अघमर्षणम्, त्रि, (अघं पापं मृष्यते उत्पन्नत्वेऽपि नाशनेन कर्म्माक्षमत्वात् सह्यतेऽनेन अघ + मृष् + करणेल्युट् ।) पापनाशनं । सर्व्वपापध्वंसि- जप्यं । इत्यमरः ॥ (उत्पन्नपापनाशार्थं जप्ये मन्त्र- भेदे यथा सन्ध्यामन्त्रे द्रुपदादिवेत्यादि) अश्वमेध- यज्ञाङ्गावभृथस्नानमन्त्रः । वैदिकसन्ध्यान्तर्गत- मन्त्रकरणकाघ्रातजलप्रक्षेपरूपपापनाशकक्रिया- विशेषः । इति स्मृतिः ॥ तान्त्रिकसन्ध्यायान्तु, -- “षडङ्गन्यासमाचर्य्य वामहस्ते जलं ततः । गृहीत्वा दक्षिणेनैव संपुटं कारयेद्बुधः ॥ शिववायुजलपृथ्वीवह्निवीजैस्त्रिधा पुनः । अभिमन्त्र्य च मूलेन सप्तधा तत्त्वमुद्रया ॥ निःक्षिपेत् तज्जलं मूर्द्ध्नि शेषं दक्षे निधाय च । इडयाकृष्य देहान्तःक्षालितं पापसञ्चयं ॥ कृष्णवर्णं तदुदकं दक्षनाड्या विरेचयेत् । दक्षहस्ते च तन्मन्त्री पापरूपं विचिन्त्य च ॥ पुरतो वज्रपाषाणे निक्षिपेदस्त्रमुञ्चरन्” ॥ इति तन्त्रसारः ॥

"https://sa.wiktionary.org/w/index.php?title=अघमर्षणम्&oldid=110191" इत्यस्माद् प्रतिप्राप्तम्