सामग्री पर जाएँ

अघोषः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अघोषः, त्रि, (नास्ति घोषः शब्दो यत्र बहुव्रीहिः शब्दशून्ये, न अल्पः घोषः शब्दो यत्र बहुव्रीहिः अल्पध्वनियुक्ते । तथाहि, -- “तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः” ॥ इति स्मरणात् ।) आभीरशून्यदेशादिः । शब्द- रहितः । अल्पध्वनियुक्तः । कलापादिव्याकरणस्य संज्ञाविशेषे पुं । स त वर्गप्रथमद्वितीयवर्णाः शषसाश्च ॥

"https://sa.wiktionary.org/w/index.php?title=अघोषः&oldid=110202" इत्यस्माद् प्रतिप्राप्तम्