अङ्क
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अङ्क त् क पदे । लक्ष्मणि । इति कविकल्पद्रुमः ॥ कण्ठ्यवर्गाद्योपधः । पदं सङ्ख्यासंस्थानं । लक्ष्म चिह्नयुक्तक्रिया । तथा च, -- “अर्थक्रियैव धातूनां कर्तृव्यापारलक्ष्मणा । आत्मनिष्ठं क्रियार्थत्वं धात्वर्थेष्वक्रियात्मसु” ॥ इति वोपदेवः ॥ “अङ्कयत्यरिसैन्यानि युधि पृष्ठेषु शायकैः” । इति हलायुधः ॥ अङ्कयति अङ्कापयति । इति दुर्गादासः ॥
अङ्कः, पुं, (अङ्कयति चिह्नयति, अङ्क + अच्) चिह्नं । (स्वनामकाङ्कां निचखान शायकं इति रघुवंशे ।) क्रोडं । (सपत्नीतनयं दृष्ट्वा तमङ्कारोह- णोत्सुकं । इति विष्णुपुराणे ॥) रूपकविशेषः । अपराधः । रेखा । विभूषणं । समोपं । स्थानं । नाटकांशः । इति मेदिनी ॥ (प्रत्यक्षनेतृचरितो रसभावससुज्ज्वलः । भवेदगूढशब्दार्थः क्षुद्र- चूर्णकसंयुतः ॥ अन्तर्निष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्त्तितः । इति साहित्यदर्पणे) । चित्र- युद्धं । इति विश्वः ॥ शरीरं । इत्युणादिकोषः ॥ नवसङ्ख्या । इति ज्योतिषं ॥ (कुचभूषायां । प्रकरणे । अगे । कटिप्रदेशे । कलङ्के । एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्वि- वाङ्कः । इति कुमारसम्भवे ।)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अङ्क पुं।
चिह्नम्
समानार्थक:कलङ्क,अङ्क,लाञ्छन,चिह्न,लक्ष्मन्,लक्षण,लिङ्ग,निमित्त,पद,व्यञ्जन,प्रज्ञान
1।3।17।1।2
कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्. सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः॥
: विष्णुलाञ्छनम्
पदार्थ-विभागः : चिह्नम्
अङ्क पुं।
अङ्गः
समानार्थक:अङ्क
3।3।4।1।1
उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः। तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः॥
पदार्थ-विभागः : अवयवः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अङ्क(न्क)¦ संख्याकरणे चिह्रयुक्तकरणे अदन्तचुरादि॰ उभ॰सक॰ सेट्। अङ्कय--ति ते आञ्चिक--त्--त। अङ्का-पयति ते इति केचित्।
“प्रेयांसमाङ्कयदसौ न विधौकलङ्क” इत्युद्भटः।
“पुक् चेत्यङ्कापयत्यपीति” काम-धेनुः। अच् अङ्कः। क्त अङ्कितः ल्युट् अङ्कनम्असुन् अङ्कः।
अङ्क¦ पु॰ न॰ अङ्क--करणे, कर्त्तरि वा अच्। चिह्ने
“रतिवल-यपदाङ्के चापमासज्य कण्ठे” इति कुमा॰। कलङ्के,
“एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्वि-वाङ्क” इति कुमा॰। दृश्यकाव्याङ्गभेदे तल्लक्षणं यथा
“प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः। भवेदगूढशब्दार्थःक्षुद्रचूर्णकसंयुतः॥ विच्छिन्नावान्तरैकार्थः किञ्चित्संलग्न-विन्दुकः। युक्तो न बहुभिः कार्य्यैर्वीजसंहृतिमान् न च॥ नानाविधानसंयुक्तो नातिप्रचुरपद्यवान्। आवश्यकानांकार्य्याणामविरोधाद्विनिर्म्मितः॥ नानेकदिननिर्व्वर्त्यकथयासम्प्रयोजितः। आसन्ननायकः पात्रैर्युतस्त्रिचतुरैस्तथा॥ दूराह्वानं बधो युद्धं राज्यदेशादिविप्लवः। विवाहो भोजनंशापोत्सर्गौ मृत्यूरतन्तथा॥ दन्तच्छेद्यं नखछेद्यमन्यद् व्रीडा-करञ्च यत्। शयनाधरपानादि नगराद्युपरीधनम्॥ स्नानानुलेपने चैभिर्वर्जितो नातिविस्तरः। देवीपरि-जनादीनाममात्यबणिजामपि॥ प्रत्यक्षचित्रचरितैर्युक्तो[Page0070-b+ 38] भावरसोद्भवैः। अन्तनिष्कान्तनिखिलपात्रोऽङ्क इतिकीर्त्तितः” इति सा॰॥ दृश्यकाव्य रूपकभेदे च पु॰। यथा
“नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः। ईहा-मृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश” इति विभज्य
“उत्सृष्टिकाऽङ्क एकाङ्कोनेतारः व्यापृता नराः। रसोऽत्रकरुणः स्थायी बहुस्त्रीपरिदेवितम्॥ प्राख्यातमितिवृत्तञ्चकविर्बुद्ध्या प्रपञ्चयेत्। भाणवत् सन्धिवृत्ताङ्गान्यस्मिन्जयपराजयौ॥ युद्धञ्च वाचा कर्त्तव्यं निर्वेदवचनं बहु”। इति लक्षितम्
“इमञ्च केचित् नाटकाद्यन्तःपात्यङ्कपरिच्छे-दार्थम् उत्सृष्टिकाङ्कनामानम्” आहुः। अन्ये तु
“उत्क्रान्ताविलोमरूपा सृष्टिर्यत्रेति उत्सृष्टिकाङ्कः” इति सा॰। पर्व्वते, समीपे, युद्धभूषणे, देहे, अपराधे, स्थाने, चित्रयुद्धेपरम्परासम्बद्धे चिह्ने च पु॰। क्रोडे पु॰ न॰
“अनन्य-नारीकनीयमङ्कमिति” कुमा॰।
“अङ्के निधाय तं बालंपुनः संस्कारमर्हतीति” स्मृतिः।
“पुनरङ्काश्रयणी भवामिते” इति कुमा॰।
“प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्ना-वलीरम्बुधिराबबन्धेति” माघः।
“अङ्कः समीपम् उत्सङ्गश्च” इति मल्लिनाथः। एकत्वादिसंख्याबोधकरेखासन्निवेशे-
“अङ्कयुतिः किल सङ्कलिताख्येति” लीला॰। नव-संख्यायाञ्च पु॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अङ्क(क, त)¦ r. 10th cl. (अङ्कयति)
1. To number or count.
2. To mark.
अङ्क¦ n. (ङ्कं)
1. A mark or spot.
2. The flank or part above the hips.
3. A species of dramatic entertainment.
4. The act of a play, &c.
5. Fault, offence.
6. A line, a stroke.
7. Mimic war or conflict.
8. ornament, decoration.
9. Place, abode.
10. Proximity, proximate.
11. A chapter or section.
12. The body.
13. A cypher, an arithme- tical sign. E. अञ्च to go, and the Unadi affix क; or अङ्क to stain or spot, अच् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अङ्क [aṅka], 1 A. (अङ्कते) To move in a curve. -1 U. (अङ्कयति-ते अङ्कयितुम्)
To mark, stamp; हेमपादाङ्कितायां पीठिकायम् K. 192; स्वनामधेयाङ्कित Ś.4. stamped with his name; नयनोद- बिन्दुभिः अङ्कितं स्तनांशुकम् V.4.7. so भुजे शचीपत्रविशेषकाङ्किते R.3.55.6.
To enumerate, count.
To brand, stain, stigmatize; तत्को नाम गुणो भवेत्सुगुणिनां यो दुर्जनैर्नाङ्कितः Bh.2.54 branded, censured, condemned; वस्त्रेण वेष्टयित्वा ˚तं शिरः Ks.13.152 branded head.
To walk, stalk, go.
अङ्कः [aṅkḥ], [अङ्क् कर्तरि करणे वा अच्]
The lap (n. also); अङ्काद्ययावङ्कमुदीरिताशीः Ku.7.5. passed from lap to lap.
A mark, sign; अलक्तकाङ्कां पदवीं ततान R.7.7; पदङ्क्तिरलक्ताङ्का Rām.; रतिवलयपदाङ्के कण्ठे Ku.2.64. marked with the signs or traces &c.: मद्गोत्राङ्कं गेयम् Me.86, a stain, spot, stigma, brand; इन्दोः किरणेष्विवाङ्कः Ku.1.3; कट्यां कृताङ्को निर्वास्यः Ms.8.281.
A numerical figure; a number; the number 9.
A side flank; proximity, reach (connected with 1 above); समुत्सुकेवाङ्कमुपैति सिद्धिः Ki.3. 4; प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध Śi.3.36; सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपम् Bh.2.3; Ki. 17.64, See- ˚आगत below.
An act of a drama, for its nature &c., See S. D.278.
A hook or curved instrument.
A species of dramatic composition, one of the ten varieties of रूपक, See S. D.519.
An ornament (भूषा).
A sham fight, military show (चित्रयुद्ध).
A coefficient.
A place; नानाङ्क- चिह्नैर्नवहेमभाण्डैः (तुरङ्गैः) Bu.ch.2.4.
A sin, misdeed.
A line, curved line; a curve or bend generally, the bend in the arm.
The body.
A mountain. अङ्कः स्थानान्तिकक्रोडभूषणोत्संगलक्ष्मसु । मन्तो नाटकविच्छेदे चित्रयुद्धे च रूपके ॥ Nm. [cf. L. uncus; Gr.ogkos] -Comp. -अङ्कमू [अङ्के मध्ये अङ्काः शतपत्रादिचिह्नानि यस्य Tv.] water. -अवतारः when an act, hinted by persons at the end of the preceding act, is brought in continuity with the latter, it is called अङ्कावतार (descent of an act), as the sixth act of Śākuntala or second of Mālavikāgnimitra (अङ्कान्ते सूचितः पात्रैस्तदङ्क- स्याविभागतः । यत्राङकोवतरत्येषो$ङ्कावतार इति स्मृतः S. D.311). The Daśarūpa defines it differently; अङ्कावतारस्त्वङ्कान्ते पातो$ङ्कस्याविभागतः । एभिः संसूचयेत्सूच्यं दृश्यमङ्कैः प्रदर्शयेत् 3.56.-आगत, -गत a. [द्वि. त.] come within the grasp; सिंहत्वं ˚सत्त्ववृत्तिः R.2.18; श्रियं युवाप्यङ्कगतामभोक्ता R.13.67.-करणम् marking, branding &c. -तन्त्रम् the science of numbers (arithmetical or algebraical).
धारणम्णा bearing or having marks, such as those on the body of a Vaiṣṇava.
manner of holding the person. -परिवर्तः [स. त]
turning on the other side.
rolling or dallying in the lap or on the person; अपि कर्णजाहविनिवेशिताननः प्रियया तदङ्कपरिवर्तमाप्नुयाम् Māl.5.8. (an occasion for) embrace (अङ्के क्रोडे सर्वतो- भावेन वर्तनं हृदयालिङ्गनम् इत्यर्थः -Jagaddhara); so ˚परिवर्तिन्; भर्तुः ˚नी भव M.3. -पादव्रतम् N. of a Vrata; title of a chapter in the भविष्योत्तरपुराण. -पालिः -ली [पा-अलि ष. त. वा. ङीप्]
the extremity of region of the lap (क्रोडप्रान्त or प्रदेश); a seat in the lap; hence, an embrace; तावद्गाढं वितर सकृदप्यङ्कपालीं प्रसीद Māl.8.2. स्पृश हस्तेन मे हस्तमेहि देह्यङ्कपालिकाम् । Śivabhārata 21.33.
[अङ्केन पालयति पाल्-इ. तृ. त.] a nurse.
(-ली) a variety of plant, Piring or Medicago Esculenta; (Mar. धोत्रा-निघण्टुरत्नाकर) [वेदिकाख्यगन्धद्रव्यम्] -पाशः [अङ्कः पाश इव बन्धनेनेव पातनहेतुर्यत्र Tv.] an operation in arithmetic by which a peculiar concatenation or chain of numbers is formed by making the figures 1, 2 &c. exchange places (स्थानान्तमेकादिचयाङ्कघातः संख्याविभेदा नियतैः स्युरङ्कैः । भक्तो$ङ्कमित्याङ्कसमासनिघ्नः स्थानेषु युक्तो मितिसंयुतिः स्यात् ॥ See Līlā.24); (न गुणो न हरो न कृतिर्न घनः पृष्टस्तथापि दुष्टानाम् । गर्वितगणकबहूनां स्यात् पातो$वश्यमङ्कपाशे$स्मिन्).-पूरणम् multiplication of number of figures. -बन्धः. forming the lap, bending the thighs into a curve and squatting down.
branding with a mark that resembles a headless trunk (अशिरःपुरुषाकरो$ङ्कः). भाज् [अङ्कं भजते उप. स.]
seated in the lap or carried on the hip, as an infant.
being within easy reach, drawing near, soon to be obtained; अविरहितमनेकेनाङ्कभाजा फलेन Ki. 5. 52.
premature, early ripe, forced fruit. -मुखम् (or आस्यम्) that part of an act, wherein the subject of all the acts is intimated, is called अङ्कमुख, which suggests the germ as well as the end; e. g. in Māl.1 कामन्दकी and अवलोकिता hint the parts to be played by भूरिवसु and others and give the arrangement of the plot in brief (यत्र स्यादङ्क एकस्मिन्नङ्कानां सूचनाखिला । तदङ्क- मुखमित्याहुर्बीजार्थख्यापकं च तत् ॥ S. D.322.) The Daśarūpa defines it thus: अङ्कान्तपौत्ररङ्कास्यं छिन्नाङ्कस्यार्थसूचनात् ।i. e. where a character at the end of an act cuts short the story and introduces the beginning of another act; as in the second of Mv. -लोड्यः [अङ्केन लोड्यते असौ] a kind of tree (Mar. चिंचोट), ginger. -लोपः subtraction of numbers. -विद्या the science of numbers, arithmetic.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अङ्क m. a hook RV. i , 162 , 13 , etc.
अङ्क m. part of a chariot (used in the dual) TS. TBr.
अङ्क m. a curve
अङ्क m. the curve in the human , especially the female , figure above the hip (where infants sitting , astride are carried by mothers hence often = " breast " or " lap ")
अङ्क m. the side or flank
अङ्क m. the body
अङ्क m. proximity , place
अङ्क m. the bend in the arm
अङ्क m. any hook or crooked instrument
अङ्क m. a curved line
अङ्क m. a numerical figure , cipher , a figure or mark branded on an animal , etc.
अङ्क m. any mark , line , stroke , ornament , stigma
अङ्क m. a number
अङ्क m. the numbers one and nine
अङ्क m. a co-efficient
अङ्क m. an act of a drama
अङ्क m. a drama
अङ्क m. a military show or sham-fight
अङ्क m. a misdeed , a sin L. ([ cf. Gk. ? , ? , ? , ? , and Lat. uncus]).
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Aṅka.--The Taittirīya Saṃhitā[१] and Brāhmaṇa[२] refer to two Aṅkas and two Nyaṅkas as parts of a chariot. The meaning of these terms is quite obscure. The commentators refer them to the sides or wheels. Zimmer[३] compares the Greek [४] and thinks that the Aṅkau were the upper border of the body of the chariot (kośa, vandhura), and the Nyaṅkau the lower rims for greater security. Oldenberg[५] confesses that the exact sense is impossible to make out, but considers that the terms at once refer to parts of the chariot and to divinities, while Bo7htlingk[६] takes the term as referring to divinities alone.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अङ्क पु.
वलय, अङ्कुश = नुकीले अग्र भाग वाला, कौशि.सू. 18.16, गोद, जघन ‘जाते अगिन्म् उपसमाधाय अङ्क आधाय पृषदाज्यस्य उपघातं जुहोति’, श.ब्रा. 14.9.4.3; दीक्ष्य बालक अपनी माँ की गोद में बैठता है, वैखा.गृ.सू. 3.15।