अङ्कपाश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अङ्कपाश¦ पु॰ अङ्कः पाश इव बन्धनेनेव पातनहेतुरत्र। लीला-वत्युक्ते एकाद्यङ्कानां स्थानविनिमयेन संख्याभेदबोधके,तदैक्यसंख्यासङ्कलनोपयोगिनि च प्रक्रियाभेदे
“स्थानान्तमेका-दिचयावघातः संख्याविभेदो नियतैः स्युरङ्कैः। भक्तोऽङ्क-मित्याङ्कसमासनिघ्नः स्थानेषु युक्तोमितिसंयुतिः स्यादिति”। यथा
१ ,
२ , एतयोरङ्कयोः स्थानद्वये, स्थितिः तयाःस्थानविनिमये कति भेदा, भेदभिन्नानाञ्च संख्यैक्यमितिःकेति
१ च पृष्टे अनेनैव प्रकरणेन
१२ ,
२२ , एतौ द्वौ भेदौऐक्याङ्कमितिः”
३३ इत्युत्तरं तच्चानेनैव भवति।
“नगुणो न हरो न कतिर्न घनः पृष्टस्तथापि दुष्टानाम्। गर्वितगणकबहूना स्यात् पातोऽवश्यमङ्कपाशेऽस्मिन्निति” लीलावती।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अङ्कपाश/ अङ्क--पाश m. a peculiar concatenation of numerals or numbers.
