अङ्कोठः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अङ्कोठः, पुं, (अङ्क्यतेऽनुभूयतेऽसौ अङ्क + ओठच्) वृक्षविशेषः । आकोड इति ख्यातः । धल- आ~कूडा इति केचित् । अस्य पर्य्यायः । निकोचकः २ । इत्यमरः ॥ निकोठकः ३ लिको- चकः ४ । इति भरतः ॥ अङ्कोलकः ५ बोधः ६ नेदिष्ठः ७ दीर्घकीलकः ८ । इति जटाधरः ॥ अङ्कोटः ९ रामठः १० । इति रत्नमाला ॥ कोठरः ११ रेची १२ गूढपत्रः १३ गुप्तस्नेहः १४ पीतसारः १५ मदनः १६ गूढवल्लिका १७ पीतः १८ ताम्रफलः १९ दीर्घकीलः २० गुणाढ्यकः २१ कोलकः २२ लम्बकर्णः २३ गन्ध- पुष्पः २४ रोचनः २५ विशानतैलगर्भः २६ । अस्य गुणाः । कटुत्वं । स्निग्धत्वं । विषलूतादिदोष- नाशित्वं । कफवायुहारित्वं । सूतशुद्धिकारित्वं । रेचकत्वञ्च ॥ * ॥ तत्फलगुणाः । शीतलत्वं । स्वादुत्वं । श्लेष्मनाशित्वं । गुरुत्वं । बलकारित्वं । धातुपोषकत्वं । विरेचकत्वं । वातपित्तदाहक्षय- दुष्टरक्तनाशित्वञ्च । इति राजनिर्घण्टः ॥
