सामग्री पर जाएँ

अङ्क्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अङ्क्यः, पुं, (अङ्क्यते वाद्यते हरीतक्याकृतिर्वाद्य- विशेषः यः । अङ्क + ण्यत् ।) हरीतक्याकृतिमृदङ्गः । पाखओयाज इति भाषा । इत्यमरः ॥ तदुक्तं, -- “सार्द्धतालत्रयायामश्चतुर्द्दशाङ्गुलाननः । हरीतक्याकृतिर्यः स्यादङ्क्योऽङ्के स हि वाद्यते ॥ इति भरतः ॥ (अपराधिविशेषाणां ललाटादिषु राज्ञा अङ्कनीयः । मनुः, -- “प्रायश्चित्तन्तु कुर्व्वाणाः सर्व्वे वर्णा यथोदितं । नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसं” ॥)

"https://sa.wiktionary.org/w/index.php?title=अङ्क्यः&oldid=110244" इत्यस्माद् प्रतिप्राप्तम्