अङ्गराट्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अङ्गराट्, पुं, (अङ्गे तद्देशे राजते यः अङ्ग + राज् + क्विप् उपपदसमासः) । अङ्गदेशाधिपतिः । स च कर्णः । इति हेमचन्द्रः ॥ (दशरथसखः लोम- पादश्च रामायणे, -- “सख्यं तस्याङ्गराजेन भविष्यति महात्मनः । कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ अङ्गराजेऽनपत्यस्तु लोमपादो भविष्यति । स राजानं दशरथं प्रार्थयिष्यति भूमिपः” ॥
