अङ्गहारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अङ्गहारः, पुं, (अङ्गानां हारः एकस्थानादन्यस्थाने चालनं षष्ठीतत्पुरुषः ।) अङ्गानां स्थानात् स्थानान्त- रनयनं । तत्पर्य्यायः । अङ्गविक्षेपः २ । इत्यमरः ॥ अङ्गहारिः ३ । इति तट्टीका ॥ स्थिरहस्तपर्य्य- स्तकादिको द्वात्रिंशत्प्रकारः । इति मधुः ॥ वृश्चिकभ्रमरादिद्वात्रिंशद्रूपः । इति रायः । अङ्गु- ल्यादिविन्यासस्त्रिं शद्रूपः । इति कौमुदी ॥
