सामग्री पर जाएँ

अङ्गहीनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अङ्गहीनः, त्रि, (अङ्गेन हीनः रहितः तृतीया तत्- पुरुषः । हा + कर्म्मणि क्तः ।) अवयवरहितः । अङ्गहानिविशिष्टः । (यथा, याज्ञवल्क्यः, -- “कालकर्म्मात्मवीजानां दोषैर्मातुस्तथैव च । गर्मस्य वैकृतं दृष्टमङ्गहीनादि जन्मतः ॥) अङ्गहीनं क्रियाहीनं विधिहीनञ्च यद्भवेत्” ॥ इति स्मृतिः ॥ कामदेवे पुंलिङ्गः ॥

"https://sa.wiktionary.org/w/index.php?title=अङ्गहीनः&oldid=110298" इत्यस्माद् प्रतिप्राप्तम्