सामग्री पर जाएँ

अङ्गाधिप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अङ्गाधिपः, पुं, (अङ्गस्य देशविशेषस्य अधिपः षष्ठी- तत्पुरुषः ।) अङ्गदेशाधिपतिः । स च कर्णः । इति भूरिप्रयोगः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अङ्गाधिप¦ पु॰ अङ्गस्य देशभेदस्य अधिपः। अङ्गदेशाधिपेप्रसिद्धतया कर्णे तस्य तद्राज्यप्राप्तिः भारते आ॰।
“यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति। तस्मादेषो-ऽङ्गविषये मया राज्येऽभिषिच्यते॥ वैशम्पायन उवाच। ततस्तस्मिन् क्षणे कर्णः सलाजकुसुमैर्घटैः। काञ्चनैःकाञ्चने पीठे मन्त्रविद्भिर्महारथः। अभिषिक्तोऽङ्गराज्येस श्रिया युक्तो महाबल इति सच देशः मगधदेशस्थगिरि-ब्रजात् सन्निकृष्टः पूर्ब्बस्यां दिशि स्थितः। सभापर्व्वणिमगधदेशवर्णने गिरिव्रजमुपवर्ण्य
“अङ्गवङ्गादयश्चैव राजानश्चमहाबलाः। गौतमाश्रममभ्येत्य रमन्तेस्म पुरार्जुनेति” अङ्गवङ्गनृपाणां सन्निकृष्टत्वमुक्तम्। भीमप्राच्यदिग्विजये च
“विजित्य युधि कौन्तेयो मागधानभ्ययाद्बली॥ दण्डञ्चदण्डधारञ्च विजित्य पृथिवीपतीन्। तैरेव सहितः सर्व्वै-र्गिरिब्रजमुपाद्रवत्। जारासन्धिं सान्त्वयित्वा करे चविनिवेश्य ह। तैरेव सहितः सर्व्वैः कर्णमभ्यद्रवद्बली॥ स कम्पयन्निव महीं बलेन चतुरङ्गिणा। युयुधे पाण्डव-श्रेष्ठः कर्णेनामित्रघातिना॥ स कर्णं युधि निर्ज्जित्य वशेकृत्वा च भारत। ततो विजिग्ये बलवान् राज्ञः पर्व्वत-वासिनः॥ अथ मोदागिरौ चैव राजानं बलवत्तरम्। पाण्डवो वाहुवीर्य्येण निजघान महामृधे इति”॥ एवञ्चगिरिव्रजात् पूर्ब्बं मोदागिरेः पश्चात् स देशः। वृहत्-संहितायान्तु तस्य भारतवर्षे आग्नेय्यां स्थितिरुक्ता। यथा
“अग्नेय्यां दिशि कोशल कलिङ्गवङ्गोपवङ्गजठराङ्गा” इति। अङ्गस्य ज्योतिःशास्त्रोक्तलग्नस्य अधिपः। लग्नाधिपे पु॰।
“अङ्गाधिपे बलनि सर्व्वविभूतिसम्पदिति” ज्योति॰। [Page0079-a+ 38]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अङ्गाधिप¦ m. (-पः) A name of KARNA4, king of Anga. See कर्ण E. अङ्ग the country, अधिप a ruler.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अङ्गाधिप/ अङ्गा m. कर्ण, the king of अङ्ग.

"https://sa.wiktionary.org/w/index.php?title=अङ्गाधिप&oldid=195024" इत्यस्माद् प्रतिप्राप्तम्