सामग्री पर जाएँ

अच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अच इ पूजायां । इति कविकल्पद्रुमः ॥ इ अ- ञ्चते । अञ्चु गतिपूजनयोरिति पूजार्थो यः स एवायं । इदित् पाठः पूजायां नलोपाभावात् । उदनुबन्धाभावश्च क्षुधवसपजार्थाञ्चेत्यादिना क्त्वा- प्रत्ययस्य निष्ठायाश्च नित्येम्बिधानात् । इति दुर्गा- दासः ॥

अच इ ञ गतौ । म्लिष्टोक्तौ । इति कविकल्प- द्रुमः ॥ इ अञ्च्यते । ञ अञ्चति अञ्चते । इति दुर्गादासः ॥

अच उ ञ गतौ म्लिष्टोक्तौ । इति कविकल्प- द्रुमः ॥ अचति अचते । उ अचित्वा (उदितो वा इतीडभावपक्षे) अक्त्वा । म्लिष्टोक्तिरव्यक्त- शब्दः । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अच¦ अविस्पष्टकथने गतौ च उभय॰ भ्वादि॰ सक॰ सेट् क्त्वावेट्। अचति ते। आचीत् आचिष्ट। क्त अक्तः क्त्वाअचित्वा--अक्त्वा
“स्वाहायज्ञमित्यङ्गुली अचते” इतिकात्या॰।
“अचतेसङ्कोचयति” इति वेददीपः।

अच(अन्चु)¦ गतौ पूजायाञ्च प॰ सक॰ सेट्। तत्र अचइदित् ञोदिच्च (अन्चु) अव्यक्तशब्दे च। अञ्चति आञ्चीत्अन्चु--गतौ अच्यात् पूजायामञ्च्यात्। क्त अक्तःपूजायामुभयोः अञ्चितः अचि--वर्त्तमाने क्त अञ्चितः। अन्चु--क्त्वा अञ्चित्वा--अक्त्वा अचि--अञ्चित्वा।
“अयमञ्चतिपञ्चशरानुचर” इति सा॰ टी॰। प्र + प्रकर्षे पूर्ब्बदिक्-कालवृत्तौ च प्राञ्चति प्राङ्(पूर्ब्बकालः) प्राची (पूर्ब्बा दिक्)परा + प्रतिगतौ, आभिमुख्याभावे, पश्चाद्भावे, वहिर्भावे च[Page0082-b+ 38] पराञ्चति (परागच्छति) पराङ् (वाह्यः)। अप +अपसरणे अपाञ्चति। सम् + सुन्दरगमने, यथोचित-गमने च समञ्चति सम्यङ्। अनु + पश्चाद्गतौ। अन्व-ञ्चति अन्वङ्। उद् + ऊर्द्ध्वगमने, उत्तरदिग्वृत्तौ चउदञ्चति (उद्गच्छति)
“उदञ्चद्रोमाञ्चमिति” उदङ् देशःउदीची (उत्तरा दिक्)। परि + समन्ताद्गतौ। पर्य्यञ्चति। प्रति + प्रतीपगतौ, पश्चाद्गतौ, पश्चाद्वर्त्तित्वे च प्रत्यञ्चति(प्रतीपं गच्छति)। प्रत्यङ्, प्रतीची (पश्चिमा दिक्)। आत्मनिव्याप्त्यर्थकप्रतिना योगात् प्रत्यक्शब्दः तस्य सर्वविषय-व्यापकत्वात् प्रत्यक्त्वम्। नि + न्यूनीभावे न्यञ्चति न्यङ्न्यग्भावः न्यक्कारः। अव + अधोगतौ, दक्षिणदिग्वृत्तौच। अवाञ्चति अवाङ् (अघोमुखः) अवाची (दक्षिणा दिक्)यथा च उत्तरदक्षिणयोः ऊर्द्धाघोभावस्तया अवाक्शब्देवक्ष्यते।

अच¦ गतौ पूजायाम् इदित् उभ॰ सक॰ सेठ् क्त्वा वेट्। अञ्चति ते आञ्चीत् आञ्चिष्ट। क्त्वा अङ्क्त्वा--अञ्चित्वा। उपसर्गात् अन्चुवत्।
“न्यञ्चते प्रत्यहं मोहो यस्मान्न्यञ्चन्तिचारय” इति कविर॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अच¦ r. 1st. cl. (उ) or (ञै) (अचति) (अञ्चति) (अञ्चते)
1. To go. to, go to or towards.
2. To worship.
3. To speak indistinctly. See अञ्च।

"https://sa.wiktionary.org/w/index.php?title=अच&oldid=195162" इत्यस्माद् प्रतिप्राप्तम्