अचेतनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अचेतनः, त्रि, (नास्ति चेतना ज्ञानं यस्य स बहु- व्रीहिः) चेतनारहितः । चैतन्यशून्यः । अज्ञानः । यथा, -- “कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु” । इति मेघदूतकाव्यं ॥ सेन्द्रियं चेतनं द्रव्यं निरि- न्द्रियमचेतनं । इति चरकः ॥
