अच्छः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अच्छः, त्रि, (न च्छ्यति निर्म्मलत्वात् दृष्टिं नावृणोति नञ् + छो + कर्त्तरि कः उपपदसमासः) स्वच्छः । निर्म्मलः । इत्यमरः ॥ (अमरुशतके, अच्छकपोल- मूलगलितैः) ।
अच्छः, पुं, (न च्छ्यति निम्मलत्वात् दृष्टिं नावृणोति न + छो + कर्त्तरि कः उपपदसमासः) स्फटिकः । भालूकः । इति मेदिनी ॥
