सामग्री पर जाएँ

अच्छिद्रावधारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अच्छिद्रावधारणम्, क्ली, (अच्छिद्रस्य दोषरहित- कर्म्मणः अवधारणं निश्चयः) दोषरहितकर्म्म- निश्चयः । तज्ज्ञापकवाक्यं । यथा, -- ततः कर्म्ममात्रप्राप्ताच्छिद्रावधारणं कुर्य्यात् । तथाच शातातपपराशरौ । -- “अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः । प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलैः समं” ॥ इति श्राद्धतत्त्वं ॥ अपि च । वशिष्ठः । “ततः शान्तिं प्रकुर्व्वीत अवधारणवाचनं” । अवधारणं अच्छिद्रावधारणं । इति तिथ्यादि- तत्त्वं ॥ तद्वाक्यं यथा, -- अद्यामुके मासि अमुक- पक्षे अमुकतिथौ मत्कृतैतदमुककर्म्माच्छिद्रमस्तु ॥

"https://sa.wiktionary.org/w/index.php?title=अच्छिद्रावधारण&oldid=110413" इत्यस्माद् प्रतिप्राप्तम्