अच्छिन्नम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अच्छिन्नम्, त्रि, (छिद + कर्म्मणि क्तः न छिन्नं नञ्- समासः) छेदरहितं । अकर्त्तितं । यथा गर्गः, -- “श्रुत्वा पुत्त्रस्य वै जन्म कृत्वा वेदोदिताः क्रियाः । अच्छिन्ननालं पश्येत्तं दत्त्वा रुक्मं फलान्वितं” ॥ इति शुद्धितत्त्वं ॥ अपि च । शङ्खः । “अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः । हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिनः” ॥ अच्छिन्नसंशयः फलोपायेतिकर्त्तव्यतासु निश्चय- शून्यः । इति प्रायश्चित्ततत्त्वं ॥
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अच्छिन्नम् क्रि.वि.
अबाध, सतत् बिना विच्छेद के, प्रणीतात्वाछिन्नमासिच्यमानमनुमन्त्रयते, मा.श्रौ.सू. 1.4.3.7।
