अच्युतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अच्युतः, पुं, (न च्यवते स्वरूपतो न गच्छति यः नित्य इति यावत् । च्यु + कर्त्तरि क्तः न च्युतः नञ्- समासः । पीताम्बरोऽच्युतः शार्ङ्गीत्यमरः) विष्णुः । इत्यमरः ॥ (यथा कुमारसम्भवे, -- तत्रावतीर्य्या- च्युतदत्तहस्तः ।) स्थिरे त्रि ॥ सोऽन्त्यवेलायामेत- त्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसंशित- मसीति छान्दोग्योपनिषत् ।
