अजातदन्त
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अजातदन्त¦ त्रि॰ न जातो दन्तोऽस्य, यस्मिन् वयसि वा। दन्तजननशून्ये, अवस्थाभेदे च।
“अजातदन्ता ये केचिद् येच गर्भे प्रपीडिता” इति वायुपुरा॰।
“अजातदन्तमरणेपित्रोरेकाहमिष्यते” इति शु॰ कूर्म्मपुरा॰। तत्कालश्चनृणां षण्मासाभ्यन्तरमिति शुद्धितत्त्वे सपञ्चं निरूपितम्। पश्वादीनान्तु प्रधानदन्तोत्पत्त्यभावे एवाजातदन्तत्वव्यवहारः(आदां ता) इत्यादि लोके प्रसिद्धिः। स च प्रायेण द्विवर्षो-त्तरकालपर्य्यन्त्तः।
