अजातशत्रुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अजातशत्रुः, पुं, (अजातः सर्व्वप्रियत्वात् अनुत्पन्नः शत्रुर्यस्य सः) राजा युधिष्ठिरः । इति हेमचन्द्रः ॥ (यथा महाभारते, -- “अजातशत्रुमासाद्य कुन्ती वचनमब्रवीत्” ।) (शिवः । काशीपुत्त्रः । शमीकपुत्त्रः ।) (यथा हरिवंशे, “श्यामपुत्त्रः शमीकस्तु शमीको राज्यमावहत् । जुगुप्समानो भोजत्वाद्राजसूयमवाप सः । अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः” ॥) (विम्बिसारपुत्त्रः स च शाक्यमुनिसमकालोनः ॥)
