अजिह्मगः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अजिह्मगः, पुं, (अजिह्मं सरलं गच्छति यः अजिह्म + गम् + डः उपपदसमासः) बाणः । इत्यमरः ॥ अवक्रगे वाच्यलिङ्गः ॥ (यथा रामायणे, -- “ते तस्य कायं निर्भिद्य रक्तपुङ्खा अजिह्मगाः । निष्पेतुर्लोहितादिग्धा रक्ता इव महोरगाः ॥ न ह्यबिद्धं तयोर्गात्रे बभूवांगुलमन्तरं । नानिर्भिन्नं न चाध्वस्तमपि सूक्ष्ममजिह्मगैः” ॥)
