सामग्री पर जाएँ

अजैकपाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अजैकपादः, पुं, (अजस्य छागस्य एकः पाद इव पादो- यस्य सः विकंल्पे अलोपः) रुद्रविशेषः । इति जटाधरः ॥ छन्दोऽनुरोधादसन्धिरपि विष्णुपुराणे चन्द्रकलापप्रस्तावे अजएकपादिति ॥ (यथा भारते । -- “अजैकपादहिव्रध्नो विरूपाक्षः सुरेश्वरः । जयन्तो बहुरूपश्च त्र्यम्बकोऽप्यपराजितः । वैवस्वतश्च सावित्रोहरोरुद्रा इमे स्मृताः”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अजैकपाद(द्)¦ पु॰ अजस्य छागस्य एकः पाद इव पादोयस्य उपमा॰ ब॰ न पादस्यन्त्याकारलोपः। रुद्रविशेषे,तद्देवताके पूर्ब्बभाद्रपदनक्षत्रे च। पाच्छब्देन समासेअजैकपादपि तत्रार्थे।
“वीरभद्रश्च

१ शम्भुश्च

२ गिरीशश्च

३ महायशाः।
“अजैकपाद (

४ ) हिर्बुध्नः

५ पिनाकी

७ चापराजितः

७ । भुवनाधीश्वरश्चैव

८ कपाली च

९ विशाम्पते! स्थाणु

१० र्भर्गश्च

११ भगवान् रुद्रास्त्वेका-दश स्मृता” इत्युक्तेषु एकादशसु रुद्रेषु मध्ये चतुर्थे रुद्रे। अन्यत्र तु अजैकपादर्हिर्बुध्ना

३ विरूपाक्षश्च

४ रेवतः

५ । हरश्च

६ बहुरूपश्च

 ! त्र्यम्बकश्च

८ सुरेश्वरः

९ । रुद्राएकादश प्रोक्ता जयन्त

१० श्चापराजितः

११ इत्येवंतद्भेदाः। एतेषामेव ध्यानानि वक्ष्यन्ते। तेन अजइति नामान्तरं एकपादिति च नामान्तरमिति द्रष्टव्यम्।
“तेन अजनामा महारुद्रम्” इत्यादि अजस्य ध्यानम्।
“एकपादाभिधो विप्रेत्यादि” एकपादस्य ध्यानमिति वक्ष्यते

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अजैकपाद¦ m. (-दः) One of the eleven Rudras or deities so named, forms of SIVA. Sometimes read अज एकपाद। E. अज SIVA, एक one, and पाद a quarter a part.

"https://sa.wiktionary.org/w/index.php?title=अजैकपाद&oldid=484606" इत्यस्माद् प्रतिप्राप्तम्