अज्ञः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञः, त्रि, (ज्ञा + कर्त्तरि कः नज्ञः नञ्समासः ।) जडः । मूर्खः । इत्यमरः । (यदुक्तं, -- “अज्ञो भवति वै वालः पिता भवति मन्त्रदः । अज्ञं हि वालमित्याहुः पिवेत्येव तु मन्त्रदं” ॥ यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः । इदं शरणमज्ञानां । “अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणोवराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=अज्ञः&oldid=484615" इत्यस्माद् प्रतिप्राप्तम्