अज्येष्ठवृत्तिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अज्येष्ठवृत्तिः, पुं, (ज्येष्ठस्य वृत्तिः आचरणं षष्ठो- तत्पुरूषः नास्ति ज्येष्ठवृत्तिः ज्येष्ठाचरणं यस्य सःबहुव्रीहिः) ज्येष्ठवृत्तिरहितः । भ्रातृषु पितृ- वद्वर्त्तनाभाववान् । यथा, -- “योज्येष्ट्यो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः । अज्येष्ठवृर्त्तिर्यस्तु स्यात् स सम्पूज्यस्तु बन्धुवत्” ॥ इति मानवे ९ अध्याये ११० श्लोकः ॥ यो ज्येष्ठ्योऽनुजेषु पितृवद्धर्त्तेत स पितेव मातेव अगर्हणीयो भवति । यः पुनस्तथा न वर्त्तेत स मातुलादिवदर्च्चनीयः । इति तट्टीकायां कुल्लूक- भट्टः ।
