अञ्जनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अञ्जनम्, क्ली, (अन्ज + भावे ल्युट्, कज्जले तु गम्य- माने करणे ल्युट्) म्रक्षणं । गमनं । व्यक्तीकरणं । इत्यनट् प्रत्ययान्तान्जधात्वर्थंः । कज्जलं । तत्तु षड्विधं । यथा, -- “सौवीरं जाम्बलं तुत्थं मयूरश्रीकरं तथा । दर्व्विका नीलमेघश्च अञ्जनानि भवन्ति षट् ॥ तल्लक्षणानि यथा” -- “स्रवद्रूपन्तु सौवीरं जाम्बलं प्रस्तरं तथा । मयूरश्रीकरं रत्नं मेघनीलन्तु तैजसं ॥ घृष्ट्वा निगाह्य चैतानि शिलायां तैजसेऽथवा । प्रदद्यात् सर्व्वदेवेभ्यो देवीभ्यश्चापि पुत्रक ॥ घृततैलादियोगेन ताम्रादौ दीपवह्निना । यदञ्जनं जायते तु दर्व्विका परिकीर्त्तिता ॥ सर्व्वाभावे तु तां दद्यात् देवीभ्यो दर्व्विकाञ्जनं । महामाया जगद्धात्री कामाख्या त्रिपुरा तथा । आप्नुवन्ति महातोषं षड्भिरेभिः सदाञ्जनैः ॥ विधवा नाञ्जनं कुर्य्यात् महामायार्थमुत्तमं । नादत्ते त्वञ्जनं देवी वैष्णवी विधवाकृतं ॥ न मृत्पात्रे योजयेत्तु साधको नेत्ररञ्जनं । न पूजाफलमाप्नोति मृत्पात्रविहिताञ्जनैः ॥ चतुर्व्वर्गप्रदो धूपः कामदं नेत्ररञ्जनं । तस्माद्द्वयमिदं दद्याद्देवेभ्यो भक्तितो नरः” ॥ इति कालिकापुराणे ६८ अध्यायः ॥ अस्य गुणः । तारानैर्म्मल्यकारित्वं । निर्म्मलचन्द्रतुल्यनिराकुल- दृष्टिकारित्वञ्च । इति राजवल्लभः ॥ सौवीरा- ञ्जनं । रसाञ्जनं । अक्तिः । मसी । इति हेभ- चन्द्रः ॥ अग्निः इति विश्वः ॥ आलङ्कारिकभाषया व्यञ्जनाख्यवृत्तिः । यथा, -- “अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनं ॥ इति काव्यप्रकाशः ॥
