अञ्जीरम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अञ्जीरम्, क्ली, (अञ्ज + भावे इञ् स्त्रियां वा ङीप् अ- ञ्जीम् अग्निकारित्वादि गुणं राति ददाति अञ्जी आतोऽनुपसर्गे इति कर्त्तरि कः । अथवा अञ्ज + ईरम्) स्वनामख्यातफलवृक्षबिशेषः । आ~जिर + इति पेयारा इति च भाषा । तत्पर्य्यायः । मञ्जुलं २ काकोदुम्बरिकाफलं ३ । अस्य गुणाः । शीत- लत्वं । स्वादुत्वं । गुरूत्वं । वायुपित्तरक्तकृमिशूल- हृत्पीडाकफमुखवैरस्यनाशित्वं । अग्निकारित्वञ्च । लघ्वञ्जीरं तस्मादल्पगुणं । इति राजवल्लभराज- निर्घण्टौ ॥
