सामग्री पर जाएँ

अट्टः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अट्टः, पुं, (अट्टते एकं गृहमतिक्रम्य यत्र गृहे गच्छति अट्ट + अधिकरणे घञ्) क्षौमः । इत्यमरः ॥ हर्म्म्यादिगृहं । इति भरतः ॥ प्राकाराग्रस्थित- रणगृहं । इति कौटिल्यः । अट्टेति ख्यातगृह- विशेषः । इति कोङ्कटः ॥ प्राकारमण्डपस्योपरि शाला । इति केचित् ॥ हर्म्म्यादिवातकुटिका । इति केचित् ॥ मण्डपोपरि हर्म्म्यपृष्ठं । इति केचित् ॥ प्राकारधारणार्थोऽभ्यन्तरे क्षौमाख्यो- ऽट्टः । इति भट्ठः ॥ अतिशयः । इति मेदिनी ॥ हट्टः इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=अट्टः&oldid=110592" इत्यस्माद् प्रतिप्राप्तम्