सामग्री पर जाएँ

अट्टालिकाकारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अट्टालिकाकारः, पुं, (अट्टालिकां करोति यः अट्टा- लिका + कृ + अण् उपपद समासः प्रासादकारकः) शूद्रागर्भे चित्रकारौरसजातजातिविशेषः । तस्य कर्म्म गृहनिर्म्माणादि । राज इति थैकर इति च भाषा । “कुलटायाञ्च शूद्रायां चित्रकारस्य वीर्य्यतः । वभूवाट्टालिकाकारः पतितो जारदोषतः” । इति ब्रह्मवैवर्त्तपुराणं ॥

"https://sa.wiktionary.org/w/index.php?title=अट्टालिकाकारः&oldid=110608" इत्यस्माद् प्रतिप्राप्तम्