सामग्री पर जाएँ

अणीमाण्डव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अणीमाण्डव्य¦ पु॰ अणी शूलाग्रं तच्चिह्नितः माण्डव्यः। तन्नामके मुनिभेदे। तस्य तत्प्रोतत्वकथा भार॰ आ॰ प॰।
“बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः। धृतिमान्सर्व्वधर्म्मज्ञः सत्ये तपसि च स्थितः॥ स आश्रमपदद्वारिवृक्षमूले महातपाः। ऊर्द्ध्वबाहुर्म्महायोगी तस्थौ मौन-ब्रतान्वितः॥ तस्य कालेन महता तस्मिंस्तपसि वर्त्ततः। तमाश्रमपदं प्राप्रा दस्यवो लोप्त्रहारिणः॥ अनुसार्य्य-माणा बहुभी रक्षिभिर्भरतर्षभ!। ते तस्यावसथे लोप्त्रंदस्यवः कुरुसत्तम!। निधाय च भयाल्लीनास्तत्रैवानागतेबले॥ तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम्। आजगाम ततोऽपश्यंस्त{??}षिं तस्करानुगाः। तमपृच्छंस्वतो राजंस्तथावृत्तं तपोधनम्। कतमेन पथा यातादस्यवो द्विजसत्तम!। तेन गच्छामहे ब्रह्मन्! पथा शीघ्रतरंवयम्॥ तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः। नकिञ्चिद्वचनं राजन्नब्रवीत् साध्वसाधु वा॥ ततस्ते राज-पुरुषा विचिन्वानास्तमाश्रमम्। ददृशुस्तत्र लीनास्तांश्चौरांस्तद्द्र व्यमेव च॥ ततः शङ्का समभवद्नक्षिणां तं मुनिं प्रति। [Page0096-b+ 38] संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन्॥ तं राजा सहतैश्चौरैरन्वशाद्बध्यतामिति। स रक्षिभिस्तैरज्ञातः शूलेप्रोतो महायशाः॥ ततस्ते शूल आरोप्य तं मुनिं रक्षिणस्तदा। प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ॥ शूलस्थः स तु धर्म्मात्मा कालेन महता ततः। निराहारोऽपि विप्रर्षिर्म्मरणं नाभ्यपद्यत। धारयामास च प्राणा-नृषींश्च समुपानयत्॥ शूलाग्रे तप्यमानेन तपस्तेन महा-त्मना। सन्तापं परमं जग्मुर्म्मुनयस्तपसान्विताः॥ तेरात्रौ शकुना भूत्वा सन्निपत्य तु भारत!। दर्शयन्तोयथाशक्ति तमपृच्छन् द्विजोत्तमम्॥ श्रोतुमिच्छामहेब्रह्मन्! किं पापं कृतवानसि। येनेह समनुप्राप्तं शूलेदुःखभयं महत्॥ वैशम्पायन् उवाच। ततः स मुनि-शार्दूलस्तानुवाच तपोधनान्। दोपतः कं गमिष्यामिन हि मेऽन्योऽपराध्यति॥ तं दृष्ट्वा रक्षिणस्तत्र तथाबहुतिथेऽहनि। न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप!॥ श्रुत्वा च वचनं तेषां निश्चित्य सह बन्धुभिः। प्रसाद-यामास तदा शूलस्थमृषिसत्तमम्॥ राजोवाच। यन्मयाप-कृतं मोहादज्ञानादृषिसत्तम!। प्रसादये त्वां तत्राहं न मेत्वं क्रोद्धुमर्हसि॥ एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः। कृतप्रसादं राजा तं ततः समवतारयत्॥ अवतार्य्य चशूलाग्रात्तच्छूलं निश्चकर्ष ह। अशन्नुवंश्च निष्क्रष्टुं शूलंमूले स चिच्छिदे॥ स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः। तेनातितपसा लोकान् विजिग्ये दुर्लभान् परैः। अणी-माण्डव्य इति च ततो लोकेषु गीयते” इति॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अणीमाण्डव्य/ अणी-माण्डव्य m. N. of a Brahman ascetic (said to have been impaled on an अणिor point of a stake) MBh.

"https://sa.wiktionary.org/w/index.php?title=अणीमाण्डव्य&oldid=195736" इत्यस्माद् प्रतिप्राप्तम्