सामग्री पर जाएँ

अण्डकोषः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अण्डकोषः, पुं, (अण्डस्य मुष्कस्य कोषः, षष्ठीतत्- पुरुषः ।) स्वनामख्यातशरीरावयवविशेषः । तत्प- र्य्यायः । मुष्कः २ वृषणः ३ । इत्यमरः ॥ अण्डं ४ पेलं ५ अण्डकः ६ । इति हेमचन्द्रः ॥ वीजपेशिका ७ । इति राजनिर्घण्टः ॥ सीमा ८ । इति जटाधरः ॥ फलकोषकः ९ । इति त्रिकाण्डशेषः ॥ फलं १० । इति रामायणं ॥ कोषकोषकमुष्काण्डवृषणा अण्ड- कोषकः । सीमा च पेलसीमानौ फलमित्यपि कुत्रचित् ॥ इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=अण्डकोषः&oldid=110639" इत्यस्माद् प्रतिप्राप्तम्